Wednesday, February 13, 2019

कवियामि वयामि यामि



कवियामि वयामि यामि
Sanskrit Wisdom से साभार

राजा भोजः कवीनां विदुषां च कृते कल्पतरु इवासीत्। भोजराज्ञा एवं आज्ञप्तं चासीत् –


विप्रोऽपि यो भवेन्मूर्खः स पुराद्बहिरस्तु मे।
कुम्भकारोऽपि यो विद्वान् स तिष्ठतु पुरे मम॥ इति॥


काले अतिक्रान्ते धारानगर्यां निवसन्तः सर्वे केवलं विदुषा कवयश्च आसन्। एकदा द्रविडदेशस्थस्य लक्ष्मीधरकवेः वैदुष्यात् प्रसन्नो भूत्वा भोजराजः मुख्यामात्यं प्राह – “अस्मै धारानगर्यां गृहं दीयतां” इति। 

अमात्यः निखिलमपि नगरं विलोक्य कमपि मूर्खं नापश्यत् यं निष्कास्य विदुषे गृहं दीयते। अन्ते स कस्यचित् कुविन्दस्य गृहं विलोक्य तमाह – “कुविन्द, गृहान्निःसर। तव गृहं विदुषे दातव्यम्” इति। तदा कुविन्दः अपि कुपितो भूत्वा राजभवनमागत्य राजानं प्रणम्य “देव, अमात्यः मां मूर्खं मत्वा नगराद् निःसारयितुमिच्छति। अहं मूर्खः पण्डितो वेति त्वं तु पश्य” इत्युक्त्वा श्लोकमेनं अवदत् 


काव्यं करोमि नहि चारुतरं करोमि यत्नात्करोमि यदि चारुतरं करोमि।
भूपालमौलिमणिमण्डितपूज्यपाद हे भोजराज कवयामि वयामि यामि॥
कुविन्देन प्रयुक्तं त्वंकारं ग्राम्यं मत्वा भोजराज एवमाह – “ललिता ते पदपङ्क्तिः, कवितामाधुर्यं च शोभनम्, किन्तु कविता विचार्यैव कर्तव्या” इति। तदा कुविन्दः प्रत्यवदत् –

बाल्ये सुतानां सुरते‍ऽङ्गनानां स्तुतौ कवीनां समरे भटानाम्।
त्वंकारयुक्ता हि गिरः प्रशस्ताः कस्ते प्रभो मोहभरः स्मर त्वम्॥

एतन्निशम्य भोजराजः “साधु भो कुविन्द, मा भैषी” इत्युक्त्वा तस्य अक्षरलक्षं ददौ।

No comments:

Post a Comment